पूर्वम्: ८।४।२५
अनन्तरम्: ८।४।२७
 
सूत्रम्
नश्च धातुस्थोरुषुभ्यः॥ ८।४।२६
काशिका-वृत्तिः
नश् च धातुस्थौरुषुभ्यः ८।४।२७

नसित्येतस्य नकारस्य णकारादेशो भवति धातुस्थान् निमित्तादुत्तरस्य उरुशब्दात् षुशब्दाच् च छन्दसि विषये। धातुस्थात् तावत् अग्ने रक्षा नः। शिक्षा णो अस्मिन्। उरुशब्दात् उरु णस्कृधि। षुशब्दात् अभी षु णः सखीनाम्। ऊर्ध्व ऊ षु ण ऊतये। अस्मदादेशो ऽयं नस्शब्दः बहुवचनस्य वस्नसौ ८।१।२१ इति।
न्यासः
नश्च धातुस्थोरुषुभ्यः। , ८।४।२६

धातौ तिष्ठतीति धातुस्थः, "सुपि स्थः" ३।२।४ इति कप्रत्ययः। ऊर्विति, ष्विति च स्वरूपग्रहणम्()। नसिति नासिकादेशस्यास्मदादेशस्य च सामान्येन ग्रहणम्()। तत इहास्मदादेश एव कार्यी, नेतरः; इतरस्य धातुस्थादिभ्यः परस्यासम्भवात्()। उत्तरत्र हि नासिकादेशस्य कार्यित्वं भविष्यति। "रक्षा णः" इति। "रक्ष पालने" (धा।पा।६५८) इत्यस्माद्धातोर्लोट्(), मध्यमपुरुषैकवचनान्तात्? परस्यास्मदो द्वितीयान्तस्य "बहुवचनस्य अस्नसौ" ८।१।२१ इति नसादेशः, "द्व्यचोऽतस्तिङः" ६।३।१३४ इति पूर्वपदस्य दीर्घः। "शिक्षा णः" इति। "शिक्षा विद्योपादाने" (धा।पा।६०५) इत्यस्मात्? तथाविधादेवास्मदो नसादेशः। "उरुणस्कृधि" इति। कृञो लोट्? सिप्(), "सेह्र्रपिच्च" ३।४।८७ इति हिरादेशः। "श्रुशृणुपृकृबृभ्यश्छन्दसि" ६।४।१०२ इति हेर्विरादेशः। "कःकरत्()" ८।३।५० इत्यादिना विसर्जनीयस्य सत्वम्()। "अभीषु णः" इति। "इकः सुञि" ६।३।१३३ इति दीर्घः, "सुञः" ८।३।१०९ इति षत्वम्()। एवं "ऊष्र्व ऊषु णः" इत्यत्राप्युकारस्य "निपातस्य च" ६।३।१२५ इयानेन दीर्घः, सुञः" ८।३।१०९ इति इति षत्वञ्()। चकारेण "छन्दसि" ८।४।२५ इत्यनुकृष्यते, उत्तरत्रानुवृत्तिनिरासार्थम्()॥